सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वासः॒ सन्तो॒ अशि॑वा अभूवन्। अधू॑र्षत स्व॒यमे॒ते वचो॑भिर्ऋजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्तः॑ ॥५॥
sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan | adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ ||
सखा॑यः। ते॒। विषु॑णाः। अ॒ग्ने॒। ए॒ते। शि॒वासः॑। सन्तः॑। अशि॑वाः। अ॒भू॒व॒न्। अधू॑र्षत। स्व॒यम्। ए॒ते। वचः॑ऽभिः। ऋ॒जु॒ऽय॒ते। वृ॒जि॒नानि॑। ब्रु॒वन्तः॑ ॥५॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे अग्ने ! य एते ते विषुणाः सखायः शिवासः सन्तोऽशिवा अभूवँस्तांस्तव भृत्यास्त्वं चाऽधूर्षत घ्नन्तु हिन्धि, हे राजभृत्या ! य एते स्वयं वचोभिर्वृजिनानि ब्रुवन्त ऋजूयते तान् सततं पालयत ॥५॥